सत्यनारायणाष्टकं

field_imag_alt

सत्यनारायणाष्टकं - Sri Satyanarayana Ashtakam

आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शंकरं |
सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशं भजे || 1||

सर्वदा लोक-कल्याण-पारायणं देव-गो-विप्र-रक्षार्थ-सद्विग्रहं |
दीन-हीनात्म-भक्ताश्रयं सुंदरं सत्यनारायणं विष्णुमीशं भजे || 2||

दक्षिणे यस्य गंगा शुभा शोभते राजते सा रमा यस्य वामे सदा |
यः प्रसन्नाननो भाति भव्यश्च तं सत्यनारायणं विष्णुमीशं भजे || 3||

संकटे संगरे यं जनः सर्वदा स्वात्मभीनाशनाय स्मरेत् पीडितः |
पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं सत्यनारायणं विष्णुमीशं भजे || 4||

वांछितं दुर्लभं यो ददाति प्रभुः साधवे स्वात्मभक्ताय भक्तिप्रियः |
सर्वभूताश्रयं तं हि विश्वंभरं सत्यनारायणं विष्णुमीशं भजे || 5||

ब्राह्मणः साधु-वैश्यश्च तुंगध्वजो येऽभवन् विश्रुता यस्य भक्त्याऽमरा |
लीलया यस्य विश्वं ततं तं विभुं सत्यनारायणं विष्णुमीशं भजे || 6||

येन चाब्रह्मबालतृणं धार्यते सृज्यते पाल्यते सर्वमेतज्जगत् |
भक्तभावप्रियं श्रीदयासागरं सत्यनारायणं विष्णुमीशं भजे || 7||

सर्वकामप्रदं सर्वदा सत्प्रियं वंदितं देववृंदैर्मुनींद्रार्चितं |
पुत्र-पौत्रादि-सर्वेष्टदं शाश्वतं सत्यनारायणं विष्णुमीशं भजे || 8||

अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसंध्यं पठेत् |
तस्य नश्यंति पापानि तेनाऽग्निना इंधनानीव शुष्काणि सर्वाणि वै || 9||

इति सत्यनारायणाष्टकं संपूर्णं |